________________
पुलाकः पुलाकस्य चरित्रपर्यायैः स्याद्धीनस्तुल्योऽधिको वा, तत्रहीनोऽधिको वा भवन्ननन्तासङ्ख्यसङ्खधेयभागसङ्ख्यातासङ्ख्यातानन्तगुणलक्षणेन षटूस्थानकेन स्यात् ,एवं बकुशप्रतिसेवककपायकुशीला अपि खस्थानहीनाधिकचिन्ताया षट्स्थानपतिता एव,निर्ग्रन्थस्नातकौ तु स्वस्थानचिन्तायां तुल्यावेव, परस्थानसन्निकर्षचिन्तायां पुलाको बकुशप्रतिसेवकनिर्ग्रन्थस्नातकेभ्यश्चरित्रपर्यायैरनन्तगुणहीनो न तु तुल्योऽधिको वा, कषायकुशीलापेक्षया पट्रस्थानपतितः, तथा चागमः-"पुलाए णं भंते ! बउसस्स परहाणसन्निगासेणं चरित्तपजवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! हीणे णो तुले णो अब्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि. कसायकुसीलेण समं छट्ठाणवडिए, जहेव सट्टाणणियंठस्स, जहा बउसस्स एवं सिणायस्सवि" केचित्तु प्रतिसेवनाकुशीलापेक्षयापि षट्रस्थानपतित इत्याहुः, बकुशः पुलाकापेक्षया चरित्रपर्यायैरनन्तगुणाधिकः प्रतिसेवककषायकुशीलौ तु प्रति षट्रस्थानपतितः निर्ग्रन्थस्नातकाभ्यामनन्तगुणहीनः, एवं प्रतिसेवककषायकुशीलयोरपि परस्थानसंनिको वाच्यो नवरं कषायकुशीलः पुलाकापेक्षया षट्स्थानपतितः, निग्रन्थस्नातकौ पुलाकाद्यपेक्षयाऽनन्तगुणाधिकाविति १६। द्वारं। 'जोग'त्ति पुलाकादीनां निर्ग्रन्थावसानानां मनोवाकायास्त्रयोऽपि योगाः स्युः, स्नातकः सयोगोऽयोगो वा स्यात् १७॥ द्वारं । 'उवओग'त्ति, पुलाकादयश्चत्वारो मतिश्रुतावधिमनःपर्यायभेदतश्चतुर्भेदे साकारोपयोगे चक्षुरचक्षुरवधिविकल्पतस्त्रिविधे चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोर्द्वयोरेव १८ । द्वारं । 'कसाय'त्ति पुलाकबकुशप्रतिसेवकाः संज्वलनकषायैश्चतुःकपायाः
For Private & Personal use only
N
उत्तराय.SItional
ainelibrary.org