SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ANSEXSAGARRANGER'S सूत्रषट्वं प्रकटार्थमेव, केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः, अत्र च 'अध्वानं' मार्ग पथि साधु पाथेयं-सम्बलकं तद्यस्याविद्यमानं सोऽपाथेयः 'प्रपद्यते' अङ्गीकुरुते, क्षुत्तष्णापीडितत्वं चेह दुःखित्वभवने हेतुः । द्वितीयसूत्रेण दार्टान्तिकोपदर्शनं, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, दारिद्यादिपीडोपलक्षणं चैतत् । उत्तरसूत्रद्वयेन चैतत्सूत्रद्वयोक्तस्यैवार्थस्य व्यतिरेक उक्तः, तत्र सुखित्वे हेतुः क्षुत्तुष्णाविवर्जितत्वमुक्तम् । 'धर्म' पापविरतिरूपम् 'अपिः' पूरणे 'कृत्वा' विधाय गच्छन्नुपलक्षणत्वागतश्च 'सः' इति धर्मकर्ता प्रक्रमात्पाथेयोपमधर्मसहितः सुखी भवति, सुखित्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च, अत्र च प्रस्तावात्कर्म पापं वेदना चासातरूपा गृह्यते, अनेन धर्मकर्मकरणाकरणयोर्गुणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः। 'जहे'त्यादिना च सूत्रद्वयेन तमेव दृढयति, अत्र च यथा । सारभाण्डानि-महामूल्यवस्त्रादीनि 'णीणेइत्ति निष्काशयति 'असारं' जरद्वस्त्रादि 'अवउज्झइत्ति अपोहति-त्यजति, एवं 'लोके' जगति 'पलित्तमित्ति प्रदीप्त इव प्रदीसे अत्याकुलीकृते 'आत्मानं' सारभाण्डतुल्यं 'तारयिष्यामि' जरामरणप्रदीप्तलोकपारं नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादि त्यक्ष्यामीति भावः, अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तं, युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम् , 'अणुमनिओ'चि अनुमतः-अभ्यनुज्ञात इति सूत्रषट्कावयवार्थः॥ एवं च तेनोक्ते तं बिंतऽम्मापियरो, सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयव्वाइंभिक्खुणा ॥२४॥ समया Jain Educati o nal For Privale & Personal use only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy