________________
Jain Education
| ग्रहात्मकः संयमश्च - उक्तरूपस्तान् धारयति तपोनियमसंयमधरस्तम्, अत एव शीलम् - अष्टादशशीलाङ्गसहस्ररूपं तेनाढ्यं - परिपूर्ण शीलाढ्यं, तत एव च गुणानां - ज्ञानादीनामाकर इव गुणाकरस्तं ॥ 'तमिति श्रमणसंयतं 'पेहद' त्ति पश्यति 'मृगापुत्रः' युवराजः 'दृष्टवा' दृशा 'अणमिसाइ उत्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेषयैव, क्व 'मन्ये' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्- अवलोकितं मया 'पुरा' इति पूर्वजन्मनि ?, शेषं प्रतीतमेव, नवरम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे 'शोभने' प्रधाने क्षायोपशमिकभाववर्त्तिनीतियावत् 'मोहं' क्केदं मया दृष्टं | वेदमित्यतिचिन्तातश्चित्तसङ्घट्टजमूर्च्छत्मकं 'गतस्य' प्राप्तस्य सतः ॥ तथा 'सरति'त्ति स्मरति पौराणिकीं 'जाति' जन्म 'श्रामण्यं च ' श्रमणभावं 'पुराकृतं' जन्मान्तरानुष्ठितमिति सूत्रचतुष्टयार्थः ॥ एतदेवातिस्पष्टताहेतोरनुगदितुमाह | नियुक्तिकृत्
सुग्गीवे नयरंमि अ राया नामेण आसि बलभद्दो । तस्सासि अग्गमहिसी देवी उ मिगावई नामं ॥ ४०७॥ तेसिं दुण्हवि पुत्तो आसी नामेण बलसिरी धीमं । वयरोसभसंघयणो जुवराया चरमभवधारी ॥ ४०८ ॥ उन्नं माणहिअओ पासाए नंदणंमि सो रम्मे । किलई पमदासहिओ देवो दुकुंदगो चेव ॥ ४०९ ॥ अह अन्नया कयाई पासायतलंमि सो ठिओ संतो । आलोएइ पुरवरे रुंदे मग्गे गुणसमग्गे ॥ ४१० ॥
onal
For Private & Personal Use Only
ainelibrary.org