SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. मृगापुत्रीया० १९ बृहद्वृत्तिः ॥४५॥ सुरः 'दोगुंदगो चेव'त्ति 'चः' पूरणे दोगुन्दग इव, दोगुन्दगाश्च त्रायस्त्रिंशाः, तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुंदुगा इति भण्णंति', 'नित्यं' सदा 'मुदितमानसः' हृष्टचित्तः ॥ स चैवं क्रीडन् कदाचिन्मणयश्चविशिष्टमाहात्म्याश्चन्द्रकान्तादयो रत्नानि च-गोमेयकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्नकुट्टिमतलः, गमकत्वाद्बहुव्रीहिः, तस्मिन् , आलोक्यन्ते दिशोऽस्मिन् स्थितरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकनं प्रासादालोकनं तस्मिन्-सर्वोपरिवर्तिचतुरिकारूपे गवाक्षेवा स्थितः-उपविष्टः 'आलोकते' कुतूहलतः पश्यति, कानि?-| नगरस्य' तस्यैव सुग्रीवनाम्नः सम्बन्धीनि 'चतुष्कत्रिकचत्वराणि' प्रतीतान्येवेति सूत्रचतुष्टयार्थः ॥ ततः किमित्याह अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनियमसंजमधर, सीलई गुणआगरं ॥५॥ तं पेहई मियापुत्ते, दिट्ठीए अणिमिसाइ उ । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा? ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ देवलोगचुओ संतो, माणुसं भवमागओ। सन्निनाणसमुप्पन्ने, जाई सरह पुराणयं ॥ (प्र०)॥ जाईसरणे समुप्पण्णे, मियापुत्ते महिडिए । सरइ पोराणि जाई, सामण्णं च पुराकयं ॥८॥ है। 'अथ' अनन्तरं 'तत्र' इति तेषु चतुष्कत्रिकचत्वरेषु 'अतिच्छंत'न्ति अतिक्रामन्तं पश्यति श्रम संयतमिति श्रमणस्य शाक्यादेरपि सम्भवात्तद्यवच्छेद्दार्थ संयतग्रहणं, तपश्च-अनशनादि नियमश्च-द्रव्याद्यभि ॥४५॥ Jain Education a l For Private & Personal use only library og
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy