SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मिति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति, अतः सूत्रानुगमे सूत्रमुच्चारणीयं तचेदम् सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दुत्ति, मिया तस्सग्गमाहिसी ॥ १ ॥ तेसिं पुत्ते बलसिरी, मियापुत्तत्ति विस्सुए । अम्मापिऊहिं दद्दए, जुवराया दमीसरे ॥ २ ॥ नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निच्चं मुहयमाणसो ॥ ३ ॥ मणिरयणकुट्टिमतले, पासायालोअणे ठिओ । आलोएह नगरस्स, चक्कतियचच्चरे ॥ ४ ॥ 'सुग्रीवे' सुग्रीवनानि नगरे 'रम्ये' रमणीये काननैः - बृहद्वृक्षाश्रयैर्वनैरुद्यानैः - आरामैः क्रीडावनैर्वा शोभिते - राजिते काननोद्यानशोभिते 'राजा' नृपो बलभद्र इति नाम्नेति शेषः, 'मृगा' मृगानाम्नी 'तस्य' इति बलभद्रस्य राज्ञः 'अग्गमहिसि 'त्ति 'अग्रमहिषी' प्रधानपत्नी || 'तयोः' राज्ञोः पुत्रः 'बलश्रीः ' बलश्रीनामा मातापितृविहितनाम्ना लोके च मृगापुत्र इति 'विश्रुतः' विख्यातः, 'अम्मापिऊणं' ति अम्मा (म्बा ) पित्रोः 'दयितः ' वल्लभः 'युवराजः' | कृतयौवराज्याभिषेको दमिनः - उद्धतदमनशीलास्ते च राजानस्तेषामीश्वरः - प्रभुर्दमीश्वरः, यद्वा दमिनः - उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ 'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' वाक्यान्तरोपन्यासार्थः प्रासादे 'क्रीडति' विलसति 'सह' समं 'स्त्रीभिः प्रमदाभिः क इव ? - 'देवः' ational For Private & Personal Use Only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy