________________
कर्मणा संवध्यन्ते जन्तव एभिरिति सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैविनिर्मुक्तो-विरहितः सर्वसङ्गविनिर्मुक्तः सनू सिद्धो भवति नीरजाः, तदनेनाहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं । फलमुक्तमिति सूत्रार्थः ॥ इत्थं तमनुशास्य गतो विवक्षितं स्थानं क्षत्रियः, शेषसञ्जयवक्तव्यतां त्वाह नियुक्तिकृत्- |
काऊण तवच्चरणं बहूणि वासाणि सो धुयकिलेसो । तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥४०४॥ 5 सुगमैव, नवरं धुताः-अपनीताः क्लिश्यन्त्येषु सत्सु जन्तव इति क्लेशाः-रागादयो येन स धुतक्लेशो, यत्संप्राप्ता न शोचन्ते, शोकहेतुशारीरमानसदुःखाभावादिति गाथार्थः ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् नयाश्च ॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायां सञ्जयीयनामाष्टादशमध्ययनं समासमिति ॥
MORE-RE-REASTRAMETES-Reme. ETRAFTERRORA% इति श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां अष्टादशमध्ययनं समाप्तमिति ॥ नाका काकाहानाबाहन
Jain Educat
i onal
For Privale & Personal use only
hijainelibrary.org