________________
दीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् , यद्वा अनार्ता-सकलदोषविगमतोऽबाधिता कीर्तिरस्येत्यनातकीर्तिः सन् , पठ्यते च 'आणट्ठाकिइपवई'त्ति, आज्ञा-आगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा आकृतिरान्मुनिवेपात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्राब्राजीद्गुणैः-राज्यगुणैः शब्दादिभिर्वा समृद्धं-संपन्नं गुणसमृद्धं, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वाद्यवहितसम्बन्धत्वाच गुणसमृद्धमपि । तथा हा अहाय'त्ति आपत्वाद् 'आदित' गृहीतवांस्तद्द्वमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति
योऽर्थः, 'शिरं'ति शिर इव शिरः सर्वजगदुपरिवर्तितया मोक्षः, पठ्यते च-'आदाय सिरसो सिरिं'ति, अत्र च |'आदाय' गृहीत्वा 'शिरःश्रियं' सर्वोत्तमां केवललक्ष्मी परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः ॥ इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्टुमाह
कहं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे। एए विसेसमादाय, सूरा दढपरकमा ॥५१॥ 'कथं' केन प्रकारेण 'धीरः' उक्तरूपः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनालजालभाषितया 'महीं' पृथ्वी 'चरेत्' भ्रमेत् ?, नैव चरेदित्यर्थः, किमिति ?, ये 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधायेतियावत् शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः-यथैते महात्मानो विशेषमादाय
JainEducatix
For Privale & Personal use only
rainelibrary.org