________________
उत्तराध्य.
अकाम
बृहद्वृत्तिः
मरणाध्य.
॥२४॥
ACCECONOSAUR
गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सवेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणामेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नाना-अनेकविधं शीलं-व्रतं खभावो वा येषां ते नानाशीलाः 'अगारस्था' गृहस्थाः, तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात् , सर्वविरतिरूपस्य च तेष्वसम्भवात् , 'विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते-भिक्षवः, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं नियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः-केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधैव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाञ्चित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम् , अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥१९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह
संति एगेहि भिक्खूहि, गारस्था संजमुत्तरा । गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥२०॥ व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्यत्ति सूत्रत्वादगारस्थाः संयमेन-देश
॥२४९॥
Jain da
ll
For Privale & Personal use only
IXMainelibrary.org