________________
विरत्यात्मकेनोत्तराः-प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु ?, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तमदेश विरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयम-18 त्वात्तेषां तथा च वृद्धसम्प्रदायः-एगो सावगो साहुं पुच्छति-सावगाणं साहूणं किमंतरं ?, साहुणा भण्णतिसरिसवमंदरंतरं, ततो सो आउलीहूओ पुणो पुच्छति-कुलिंगीणं सावगाण य किमंतरं?, तेण भण्णति-तदेव सरिसवमंदरंतरंति. ततो समासासितो, जतो भणियं-"देसेक्कदेसविरया समणाणं सावगा सुविहियाणं । जेसिं परपासंडा मतिमंपिकलं न अग्छति ॥१॥" तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ॥२०॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आह
चीराजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाईपि न तायंति, दुस्सीलं परियागतं ॥२१॥ व्याख्या-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराजिनं 'णिगिणिणं ति सूत्रत्वान्नाश्यं 'जडित्ति
१ एकः श्रावकः साधुं पृच्छति-श्रावकाणां साधूनां (च) किमन्तरम् ?, साधुना भण्यते-सर्षपमन्दरान्तरम , ततः स व्याकुलीभूतः पुनः पृच्छति-कुलिङ्गिनां श्रावकाणां च किमन्तरम् ?, तेन भण्यते-तदेव सर्षपमन्दरान्तरमिति, ततः समाश्वस्तः, यतो भणितम्देशैकदेशविरताः श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः शतीमपि कलां नार्घन्ति ॥ १॥
Jain Education
Iconal
For Privale & Personal use only
anelibrary.org