________________
पापपङ्कापगमनेनात्यन्तनिर्मलीभूतैः, शेषतीर्थकृद्भिरिति गम्यते, आख्यातं । पठ्यते च 'विप्पसण्णमणाघायंति, तत्र याच विशेषेण विविधैर्वा भावनादिभिःप्रकारैः प्रसन्ना-मरणेऽप्यपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्ससम्बन्धि मरणमप्युपचाराद्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलिखित
शरीरतया यस्मिंस्तदनाघातं, केषां पुनरिदम् ?, उच्यते-'संयतानां' समिति-सम्यग यतानां-पापोपरतानां, चारित्रिणामित्यर्थः, 'वुसीमतो'त्ति, आपत्त्वावश्यवतां वश्य इत्यायत्तः, स चेहात्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते ४ा येषां ते अमी वश्यवन्तः तेषाम् , अयमपरः सम्प्रदायार्थः-वसंति वा साहुगुणेहिं वुसीमंतः, अहवा वुसीमा-संविग्गा दातेसिंति एतच्चार्थात् पण्डितमरणमेव, ततोऽयमर्थः-यथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति,
न तथाऽपुण्यप्राणिनाम् । अन्ते समाहिमरणं अभवजीवा ण पावेंति'त्ति वचनात् , विशिष्टयोग्यताभाजामेव तत्प्रा
प्तिसम्भवादिति सूत्रार्थः॥ १८॥ यथा चैतदेवं तथा दर्शयितुमाहटून इमं सव्वेसु भिक्खूमुं, ण इमं सव्वेसु गारिसु । नानासीला य गारस्था, विसमसीला य भिक्खुणो॥१९॥
| व्याख्या-'ने'त्यवधारणफलत्वाद्वाक्यस्य नैव 'इद'मिति पण्डितमरणं 'सबेसु भिक्खूसुत्ति सूत्रत्वात् सर्वेषांक भिक्षूणां परदत्तोपजीविनां तिनामितियावत् , किन्तु केषाञ्चिदेव परोपचितपुण्यानुभाववतां भावभिक्षणां, तथा च
१ वसन्ति वा साधुगुणै: वसीमन्तः, अथवा वशिमानः संविनास्तेषामिति । २ अन्ते समाधिमरणमभव्यजीवा न प्रानवन्ति
Jain Education p
ronal
For Privale & Personal use only
Sinelibrary.org