________________
अकाम
उत्तराध्य. बृहद्धृत्तिः ॥२४॥
मरणाध्य.
-SCRECCASSALAMOROSCASS
एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाण सुणेह मे ॥१७॥ व्याख्या-'एतद्' अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं, बालानामेव, तुशब्दस्यैवार्थत्वात् , 'प्रवेदितं' प्रकर्षेण प्रतिपादितं, तीर्थकृद्गुणधरादिभिरिति गम्यते। पण्डितमरणप्रस्तावनार्थमाह'एत्तो'त्ति इतोऽकाममरणादनन्तरं 'सकाममरणं पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत 'मे' मम, कथयत इत्युपस्कारः इति सूत्रार्थः॥१७॥ यथाप्रतिज्ञातमाह| मरणंपि सपुण्णाणं, जहा मे तमणुस्सुयं । विप्पसण्णमणाघायं, संजयाणं वुसीमओ॥१८॥
व्याख्या-मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, 'पुण कर्मणि शुभे'इत्यस्माद्धातोः 'उणादयो बहुल' (पा० ३-३-१)मिति बहुलवचनाद्भावे क्यपि पुण्यम् , उक्तं हि-"पुणे कर्मणि निर्दिष्टः शुभविशेषप्रकाशको धातुरयम् । भावप्रत्यययोगाद्विभक्तिनिर्देशसिद्धमेतद्रूपम् ॥१॥" सह तेन वर्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवतां, किं सर्वमपि ?, नेत्याह--'यथा' येन प्रकारेण 'मे' मम, कथयत इति गम्यते, तदित्युपक्षेपः, तत्रोपात्तम् 'अनुश्रुतम्' अवधारितं, भवद्भिरिति शेषः, सुष्ठ प्रसन्नं मरणसमयेऽप्यकलुषं कषायकालुष्यापगमान् मनः-चेतो येषां ते सुप्रसन्नमनसः महामुनयस्तेषां ख्यातं-खसंवेदनतः प्रसिद्धं सुप्रसन्नमनःख्यातं, यद्वा-'सुप्पसन्नेहि अक्खायं' अत्र च सुष्ठु प्रसन्नैः१ अत्र पूर्वार्धे चतुर्थपञ्चमषष्ठाः पाः उत्तरार्धेऽष्टचाः
॥२४८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org