________________
उत्तराध्य.
बृहद्धति:
॥४४४॥
कविधत्वं, उक्तं वाचकैः- “ एषां मौलेषु चतुर्षु कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽव निरुहशाखाप्रशाखा निकरवदवगन्तव्याः”, तत्र तावच्छतमशीतं क्रियावादिनां, अक्रियावादिनश्च चतुरशीतिसङ्ख्याः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत्, एवं त्रिषष्ट्यधिकशतत्रयं, सर्वेऽपि चामी विचाराक्षमत्वात्कुत्सितं प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ न चैतत्वाभिप्रायेणैवोच्यते, किन्तु —
इइ पाउकरे बुद्धे, नायए परिनिच्वडे । विज्ञाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥
'इती' त्येतत् क्रियादिवादिनः किं प्रभाषन्ते । इत्येवंरूपं 'पाउकरे' त्ति प्रादुरकार्षीत् प्रकटितवान् 'बुद्धः' अवगत तत्त्वः सन् ज्ञात एव ज्ञातकः - जगत्प्रतीतः क्षत्रियो वा स चेह प्रस्तावान्महावीर एव, 'परिनिर्वृतः ' कपायानल| विध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो युक्तो विद्याचरणसंपन्नोऽत एव 'सत्यः सत्यवाक्, तथा सत्यः - अवितथस्तात्त्विकत्वेन परे - भावशत्रवस्तेषामाक्रमणं आक्रमः - अभिभवो यस्यासौ सत्यपराक्रम इति सूत्रार्थः ॥ तेषां च फलमाह -
पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गईं गच्छति, चरित्ता धम्ममारियं ॥ २५ ॥ 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादौ 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्ख्यादयो वा पातयति नरकादिषु जन्तुमिति पापं तच हिंसाद्यनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्त्तुम्-अनुष्ठातुं शीलमेषामिति
Jain Education ional
For Private & Personal Use Only
संयतीया
ध्य. १८
॥४४४ ॥
inelibrary.org