SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Jain Education क्षणिकपक्षस्य तु सामुच्छेदिक नि हववक्तव्यतायामेवोन्मूलितत्वादिति २ । विनयवादिनो विनयादेव मुक्तिमिच्छन्ति, यत उक्तं - "वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विक रितुरग हरिणगोमहिष्यजाविकश्वश्टगालजलचरकपोतका - कोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयाच्छ्रेयो भवति नान्यथेत्यध्यवसिताः " एतेऽपि न विचारसहिष्णवो, न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादभिलषितार्थावाप्तिरवलोक्यते, नापि चैषां विनयाईत्वं, येन पारलौकिक श्रेयोहेतुता भवेत्, तथाहि - लोकसमयवेदेषु गुणाभ्यधिकस्यैव विनयार्हत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न च सुरादीनामज्ञानाश्रवाविरमणादिदोषदूषितानामेतेष्वन्यतरस्यापि गुणस्य सम्भव इति कथं यदृच्छया विधीयमानस्य तस्य श्रेयोहेतुतेति ? ३ । अज्ञानवादिनस्त्वाहुः - यथेदं जगत् कैश्चिद् ब्रह्मादिविवर्त्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकमपरैर्द्रव्यादिषड्रभेदं तदपरैश्चतुरार्य सत्यात्मकमितरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथाऽऽत्माऽपि नित्यानित्यादिभेदतोऽनेकधैवोच्यते, तत्को ह्येतद्वेद किं चानेन ज्ञातेन ?, अपवर्ग प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः, तथा चाह - 'अज्ञा निका नाम येषामियमुपधृतिः, यथेह ज्ञानाधिगमप्रयासोऽपवर्ग प्रति अकिञ्चित्करो, घोरैर्ऋततपोभिरपवर्गोऽवाप्यते' इति । विचारासहत्वं चैषां विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्गे प्रत्यहेतुत्वात्, तदन्त||रेण व्रततपोपसर्गादीनामपि स्वरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवादिति । एषां च क्रियावादिनामुत्तरोत्तरभेदतोऽने tional For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy