SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥४३९॥ | शीलेनेत्यर्थः ॥ ततश्च 'अश्वं' तुरगं 'विसृज्य' विमुच्य 'णं' प्राग्वत्, 'अनगारस्य' उक्तस्यैव 'सः' सञ्जयनामा नृपः 'विनयेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति 'पादौ' चरणौ, अत्यादरख्यापकं चैतत् पादावपि तस्य भगवतः स्तवनीया| विति, वक्ति च - यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, 'क्षमख' सहख ॥ 'अथ' इत्यनन्तरं 'मौनेन' वाग्निरोधात्मकेन 'सो'ति स गर्दभालिनामा भगवान् अनगारः 'ध्यानं' धर्मध्यानम् 'आश्रितः' स्थितः 'राजानं' नृपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयं क्रुद्ध | इति न किमपि मां प्रभाषते इति राजा 'भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति, उक्तवांश्च यथा ॥ 'सञ्जयः' सञ्जयनामा राजाऽहमस्मि मा भून्नीच एवायमिति सुतरां कोप इत्येतदभिधानमिति, 'इति' अस्माद्धेतोर्भगवन् ! 'वाहराहि 'त्ति व्याहर - संभाषय 'मे' इति सुब्व्यत्ययान्माम्, अथापि स्यात् - किमेवं भवान् भयद्रुत इत्याह-'क्रुद्धः कुपितः 'तेजसा' तपोमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगारः' मुनिः 'दहेत्' भस्मसा त्कुर्यात् नरकोटीः, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्भुतोऽहमिति सूत्रचतुष्टयार्थः ॥ इदमेव व्यक्तीकर्त्तुमाह निर्युक्तिकृत् अह आसगओ राया तं पासिअ संभमागओ तत्थ । भणइ अ हा जह इहि इसिवज्झाए मणा लित्तो ३९८ Jain Educatio&tional For Private & Personal Use Only संयतीया ध्य. १८ ॥४३९॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy