________________
मध्ये गण्यते, तया वाऽस्मिन् लोके 'अमृतमिव' सुरभोज्यमिव 'पूजितः' अभ्यर्हित आराधयति 'दुहतो लोगमिणंति इहलोकपरलोकभेदेन द्विविधं लोकम् 'इणं'ति इममनेन चातिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके च सकललोकपूज्यतया परलोके च सुगत्यवाप्तेः, ततः पापवर्जनमेव विधेयमिति भाव इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् , नया अपि तथैव ॥ इति श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां सप्तदशमध्ययनं समाप्तमिति ॥
॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटी०सप्तदशमध्ययनं समाप्तम् ॥
Jain Educat
i onal
For Privale & Personal Use Only
PUNainelibrary.org