________________
उत्तराध्य. अथ संयतीयाख्यमष्टादशमध्ययनम् ।
संयतीयाबृहद्धृत्तिः
ध्य. १८ ॥४३॥ उक्तं सप्तदशमध्ययनम् , अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पापवर्जनमुक्तं,
दूतच संयतस्यैव, स च भोगर्द्धित्यागत एवेति स एव संजयोदाहरणत इहोच्यत इत्यनेन सम्बन्धेनायातमिदमध्यय
नम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेप संजयीयमिति नाम, ततः सञ्जयशब्दनिक्षेपायाह नियुक्तिकृत्
निक्लेवो संजइज्जंमि चउ० ॥ ३९२ ॥ जाणगसरीरभविए० ॥ ३९३ ॥ संजयनामं गोयं वेयंतो भावसंजओ होइ । तत्तो समुट्टियमिणं अज्झयणं संजइज्जति ॥ ३९४ ॥ |3| गाथात्रयं व्याख्यातप्रायं, नवरं 'णिक्खेवो संजइजंमिति निक्षेपः' न्यासः सञ्जयीयाध्ययने अर्थात्सञ्जयस्येति । गम्यते । तथा च तृतीयगाथायां 'संजयनाम गोयं वेयंतो' इत्युक्तं तत' इति सञ्जयादभिधेयभूतात् 'समुत्थितम्' ॥४३७॥ उत्पन्नम् इदं अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरुच्यत इति गाथात्रयार्थः । इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
Holational
For Private & Personal use only
jainelibrary.org