________________
उत्तराध्य.
बृहद्वृत्तिः
॥४२९॥
Jain Education
"
गत सणमिट्ठे च कामभोगा य दुज्जया । नरस्सत्तगवेसिस्सा, विसं तालउड़ जहा ॥ १३ ॥ नवरं 'संस्तवः' परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, कूजितादीनि हसितपर्यन्तानि कुड्यान्तराद्यवस्थि| तिनिषेधोपलक्षणानि, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि - भोगरूपाणि आसितानि - ख्यादिभिरेव सहावस्थितानि, हास्याद्युपलक्षणं चैतत्, गात्रभूषणमिष्टं चेति, चशब्दोऽपिशब्दार्थः, तत इष्टमप्यास्तां विहितं, तथा काम्यन्त इति कामाः भुज्यन्त इति भोगाः विशेषणसमासस्ते चेष्टाः शब्दादयः, नरस्योपलक्षणत्वात्रूयादेश्व आत्मगवेषिणः 'विषं' गरलः 'तालपुढं ' सद्योघाति यत्रौष्ठपुटान्तर्वर्त्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते, 'यथे' सौपम्ये, ततोऽयमर्थः - यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणतः संयमात्मकभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ सम्प्रति निगमयितुमाह -
दुज्जए कामभोगे य, निच्चसो परिवज्जए । संकाठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ १४ ॥ धम्मारामे चरे भिक्खू, धिईमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५ ॥ दुःखेन जीयन्त इति दुर्जयास्तान् 'कामभोगान्' उक्तरूपान् 'णिच्चसो'त्ति नित्यं 'परिवर्जयेत्' सर्वप्रकारं त्यजेत् 'शङ्कास्थानानि च ' अनन्तरोक्तानि, पूर्वत्र चस्य भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेद्, अन्यथा आज्ञाऽनवस्था - | मिध्यात्वविराधनादोषसम्भवः 'प्रणिधानवान्' एकाग्रमनाः । एतद्वर्जकश्च किं कुर्यादित्याह - धर्म आराम इव पाप
ational
For Private & Personal Use Only
दशब्रह्म
समाधिः.
१६
॥४२९॥
wwwwww.jainelibrary.org