________________
पठ्यते च-'धर्मलढुं'ति धर्मः-उत्तमः क्षमादिरूपः, यथाऽऽह वाचकः-'उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमत-| पस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः"(तत्त्वार्थे अ०९ सू०६) इति, तं 'लब्धं प्राप्नु, कथं ममायं निरतिचारः स्यात् इति,
'मितम्' 'अद्धमसणस्स' इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते, 'काले' प्रस्तावे 'यात्रार्थ' संयमनिर्वाहणार्थ न । IPIतु रूपाद्यर्थ 'प्रणिधानवान्' चित्तखास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिकान्तः अतिमात्रः
अतिरिक्त इत्यर्थस्तं, यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् 'अतिमात्रम्' अतिक्रान्तमर्यादं, तुशब्दस्यैवकारार्थत्वाद्वयवहितसम्बन्धत्वाच नैव 'भुजीत' अभ्यवहरेद् ब्रह्मचर्यरतःआसक्तो ब्रह्मचर्यरतः 'सदा सर्वकालं, कदाचित्कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् ॥८॥'विभूषाम्' उपकरणगता मुत्कृष्टवस्त्राद्यात्मिकां 'परिवर्जयेत्' परिहरेत् 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः 'शृङ्गारार्थ' विलासार्थ 'न धारयेत्' न स्थापयेत् न कुर्यादितियावत् ॥९॥ 'सहे' सूत्रं स्पष्टमेव, नवरं कामः-इच्छाम
दनरूपस्तस्य द्विविधस्यापि गुणाः-साधनभूता उपकारका इतियावत्, उक्तं हि-गुणः साधनमुपकारकं' कामगुणा-3 दस्तानेवंविधान् शब्दादीनिति सूत्रदशकार्थः ॥१०॥ सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्थादित्यादि तदृष्टान्ततः स्पष्टयितुमाह
आलओ थीजणाइन्नो, थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदियदरिसणं ॥११॥ कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२॥
Jain Educa
t ional
For Private & Personal use only
Kaw.jainelibrary.org