________________
28
+
+
उत्तराध्य.
दशब्रह्मसमाधिः
बृहद्वृत्तिः
रादिसन्निवेशात्मकम् , अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयो संस्थानम्-आकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं चारु४ शोभनम् उल्लपितं च-मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि
उल्लपितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुषा गृह्यत इति चक्षुखं सद्विवर्जयेत् , किमुक्तं भवति ?-चक्षुपि हि सति रूपग्रहणमवश्यंभावि, परं तदर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति. उक्तं हि-"असक्का रूवमहद, चक्खुगोयरमागयं । रागहोसे उ जे तत्थ, ते बुहो परिवजए॥१॥" कुइयंसूत्रं प्रायो व्याख्यातमेव, नवरं कुड्यान्तरादिष्विति शेषः॥५॥ हाससूत्रमपि तथैव, नवरं 'रति' दयिताङ्गसङ्गजनितां प्रीतिं 'दर्प' मनखिनीमानदलनोत्थं गर्व 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघटनादीनि, पठ्यते च-'हस्सं दप्पं रइं किडं सह भुत्तासियाणि य' अत्र च 'सहेति स्त्रीभिः साई भुक्तानि च-भोजनानि आसितानि च-स्थितानि भुक्तासितानि, शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् ॥६॥ पणीयंसूत्रं निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह गृह्यते, तस्य विवर्द्धनम्-अतिबृंहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत्॥७॥धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः 'लब्धं प्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपस्कृतं,पठ्यतेच,-'धम्मलद्धंति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु कुण्डलादिकरणेन लब्धं धर्मलब्धं,
१ अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ।। १ ॥
॥४२८॥
Jain Education International
Manelibrary.org
For Privale & Personal use only