SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Jain Education | सन्तापोपतप्तानां जन्तूनां निर्वृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्त्तेतेतियावत्, यद्वा धर्मे आ - समन्ताद्रमत इति धर्मारामः 'संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान् ' धृतिः - चित्तस्वास्थ्यं तद्वान्, स चैवं धर्मसारथिः - “ठिओ उठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्त्तयिता, ततोऽ| न्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः - आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उप| शान्तो ब्रह्मचर्ये समाहितः - समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह - देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नर्मसंति, दुक्करं जे करंति तं ॥ १६ ॥ देवाः - ज्योतिष्क वैमानिकाः दानवाः- भुवनपतयः गन्धर्वयक्षराक्षस किन्नराः - व्यन्तरविशेषाः समासः सुकर एव, | उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम्, एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कुर्वन्ति 'दुष्करं' कातरजनदुरनुचरं 'जे' इति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः ॥ सम्प्रति सकलाध्ययनार्थोपसंहारमाह एस धम्मे धुवे नियए, सासए जिणदेसिए । सिद्धा सिज्झति चाणेणं, सिज्झिस्संति तहापरे ॥ १७ ॥ ति बेमि ॥ For Private & Personal Use Only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy