________________
लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकालयादीनि येष्वतिसंपीडिताङ्गा दुःखमाकृष्यमाणाः बहिनिष्क्रामन्ति जन्तवः, यद्वा नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानि-सीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानानिसागरोपमादिस्थित्यात्मकानि, तत्किमियताऽपि परितप्यत इत्यत आह–'अशीलानाम्' अविद्यमानसदाचाराणां या गतिर्नरकात्मिका सा च श्रुतेति सम्बन्धः, कीदृशानाम् ?-'बालानाम्' अज्ञानां 'क्रूरकर्मणां' हिंस्रमृषाभाषकादीनां, कीशी गतिरित्याह-प्रगाढा नामात्युत्कटतया निरन्तरतया च प्रकर्षवत्यो 'यत्र' यस्यां गती वेद्यन्त इति वेदना:शीतोष्णशाल्मल्याश्लेपणादयः, तदयमस्याशयः-ममैवंविधानुष्ठानस्येदृश्येव गतिरिति सूत्रार्थः ॥ १२॥ तथा
तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति ॥ १३॥ व्याख्या-तत्रे'ति नरकेषु उपपाते भवमोपपातिकं 'स्थानं' स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे' मया तदित्यनन्तरोक्तपरामर्श 'अनुश्रुतम्' अवधारितं, गुरुभिरुच्यमानमिति शेषः, औपपातिकमिति च युवतोऽस्थायमाशयः-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम् , औपपातिकत्वे त्वन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः ?, तथा च-'आहाकम्मेहि'ति आधानमाधाकरणम् , आत्मनेति गम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि, तैः आधाकर्मभिः-खकृतकर्मभिः, यद्वाऽऽपत्वात् , 'आहेति' आधाय कृत्वा, कर्माणीति गम्यते, ततस्तैरेव कर्मभिः 'गच्छन्' यान , प्रक्रमान्नरकं, यद्वा-'यथाक
उत्तराध्य.४२
For Privale & Personal use only
tanelibrary.org