________________
उत्तराध्य. ७१
पने क्षुण्णे, 'दवेत्ति द्रव्यविषयेषु दशसु विचार्यमाणेषु 'ज्ञातव्यः' अवगन्तव्यः दश प्रदेशाः परिमाणमस्येति दशप्र| देशिकः स्कन्धो दशोच्यते, दशपरमाणुद्रव्यनिष्पन्नत्वात्, तथा 'ओगाहणाट्ठिईए' ति स्कन्ध एवावगाहनायां चिन्त्य - | मानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, स्थितौ च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैतत्सर्व, यत आह चूर्णिकृत् - " द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया इति ज्ञातव्याः, " 'पज्जव 'त्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश [क्षये] (क्कये ) पर्याया इत्याह- 'द्विके च' जीवाजीवरूपे 'चः' पूरणे, तत्र जीवपर्याया विवक्षया कपायादयः, अजीव पर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति | गाथार्थः ॥ इदानीं ब्रह्मनिक्षेपमाह
बंभंमि (मी) उ चउक्कं ठवणाबंभंमि बंभणुप्पत्ती । दव्वंमि वत्थिनिग्गहु अन्नाणीणं मुणेयव्वो ॥ ३८१ ॥ भावे उ वत्थिनिग्गहु नायव्वो तस्स रक्खणट्टाए। ठाणाणि ताणि वज्जिज्ज जाणि भणियाणि अज्झयणे ॥ 'वंभंमि उ'त्ति ब्रह्मणि पुनर्विचार्ये 'चक्कं' ति चतुष्को नामस्थापनाद्रव्यभावभेदान्निक्षेप इति गम्यते, तत्र नामब्रह्म यस्य ब्रह्मेति नाम, स्थापनात्राणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाम्नि प्रथमा “एका मणूसजाई रज्जु१ एका मनुष्यजातिः राज्योत्पत्तौ च द्वे कृते वृषभस्य । तिस्रश्च शिल्पवाणिज्ये श्रावकधर्मे चतस्रः ॥ १ ॥
ational
For Private & Personal Use Only
jainelibrary.org