________________
स्येति कोविदात्मा, 'पण्णे अभिभूय सबदंसी उवसंतेत्ति प्राग्वत् , 'अविहेठकः' न कस्यचिद्विबाधको यः स भिक्षु-* रिति सूत्रार्थः ॥ तथा
असिप्पजीवी अगिहे अमित्ते, जिइंदिओ सव्वओ विप्पमुके। अणुक्कसाई लहु अप्पभक्खी, चिच्चा गिह एगचरे स भिक्खू ॥१६॥ तिबेमि ।।
॥सभिक्खूअज्झयणं ॥१५॥ | शिल्पेन-चित्रपत्रच्छेदादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी न तथाऽशिल्पजीवी 'अगृहः' गृहविरहितः तथा अविद्यमानानि मित्राणि-अभिष्वङ्गहेतवो वयस्या यस्यासावमित्रः, जितानि-वशीकृतानि 'इन्द्रियाणि' श्रोत्रादीनियेन स तथा, 'सर्वतः' बाह्यादभ्यन्तराच ग्रन्थादिति गम्यते, विविधैःप्रकारैःप्रकर्षण मुक्तो विप्रमुक्तः, तथा अणवःखल्पाः सज्वलननामान इतियावत् कषायाः-क्रोधादयो यस्येति सर्वधनादित्वादिनि प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ककारस्य द्वित्वं, यद्वा उत्कषायी-प्रबलकषायी न तथाऽनुत्कषायी अल्पानि-स्तोकानि लघूनि-निःसाराणि निष्पावादीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिब्यत्ययः प्राग्वत्, 'त्यक्त्वा' अपहाय गृहं द्रव्यभावभेदभिन्नम्, एको-रागद्वेषविरहितः तथाविधयोग्यतावाप्तावसहायो वा चरति-विहरत्येकचरो यः स भिक्षुः, अनेनैकाकिविहार उपलक्षित इति सूत्रार्थः ॥ इति' परिसमाप्तौ, ब्रवीमीति पूर्ववदेव, नया अपि पूर्ववदेव ॥ ॥ इति श्री शान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां पञ्चदशमध्ययनं समासमिति ॥१५॥
Jain Education anal
HI
For Privale & Personal use only
hinelibrary.org