________________
उत्तराध्य.
सभिक्षुकमध्ययनं.
बृहद्धृत्तिः
॥४१९॥
सदा विविहा भवंति लोए, दिव्वा माणुसया तहा तिरिच्छा।
भीमा भयभेरवा उराला, जो सुच्चा ण विहिजई स भिक्खू ॥१४॥ 'शब्दाः' ध्वनयः 'विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकाराः भवन्ति' जायन्ते 'लोके' जगति 'दिव्याः' देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनस्तथा 'तैरश्चाः' तिर्यक्सम्बन्धिनः 'भीमाः' रौद्राः भयेन भैरवाः-अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तो यः 'श्रुत्वा' आकर्ण्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'न व्यथते' न बिभेति धर्मध्यानतो न चलति वास भिक्षुरिति सूत्रार्थः ॥ अनेनोपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्तं, सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाह
वायं विविहं समिच्च लोए, सहिए खेयाणुगए अ कोवियप्पा ।
पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ 'वाद' च खखदर्शनाभिप्रायवचनविज्ञानात्मकं 'विविधम्' अनेकप्रकारं, धर्मविषयेऽपि बनेकधा विवदन्ते, यथोक्तं“सेतुकरणेऽपि धर्मो भवत्यसेतुकरणेऽपि किल धर्मः । गृहवासेऽपि च धर्मो वनेऽपि वसतां भवति धर्मः ॥१॥ मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां धर्मः" इत्यादिरूपं 'समेत्य' ज्ञात्वा लोके सहितः खहितो वा प्राग्वत् खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतो-युक्तः खेदानुगतः 'चः' पूरणे कोविदः-लब्धशास्त्रपरमार्थ आत्माs
॥४१९॥
Jan Edu
a
l
For Private & Personal use only
Asanelibrary.org