SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ K*%*%*A XARA***** लामखादिमं च उक्तरूपं 'परेसिं'ति 'परेभ्यः' गृहस्थेभ्यः 'लढुं'ति 'लब्ध्वा प्राप्य यः 'तंति सुब्ब्यत्ययात्तेनाहारा दिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः ?-ग्लानवालादीनोपकुरुते न स भिक्षुरिति । वाक्यशेषः, यस्तु मनोवाकायैः सुष्टु संवृतो निरुद्धतथाविधाहाराघभिलाषः सुसंवृता वा मनोवाकाया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, स भिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्पते [ नानुरूपो न कम्पतेमनोवाकायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ॥ अनेनार्थतो गृद्ध्यभावाभिधानादङ्गारदोषपरिहार उक्तः, सम्प्रति धूमपरिहारमाह आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च ।। नो हीलए पिंडं नीरसंतु, पंतकुलाणि परिव्वए स भिक्खू ॥१३॥ __ आयाममेव आयामकम्-अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये खगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'सीय'ति शीतं-शीतलमन्तप्रान्तोपलक्षणं चैतत् , सोवीरं-आचाम्लं यवोदकं च-यवप्रक्षालनं ७ पानीयं सोवीरयवोदकं, तच 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत् , पिण्ड्यते-सङ्घात्यते, कोऽर्थः ? -गृहिभ्यः उपलभ्य संमील्यत इति पिण्डस्तमायामकायेव 'नीरसं' विगताखादं 'तुः' अप्यर्थस्ततो नीरसमपि, अत 3ाएव 'प्रान्तकुलानि' तुच्छाशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्रार्थः ॥ अन्यच्च Jain Educa t ional ** For Private & Personal use only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy