________________
**
*
*
**
यदनन्तरमुक्तं 'परिन्नाय'त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमांध्वनि यायाधः स भिक्षुरिति सूत्रार्थः ॥ अपरं च
खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो।
नो तेसिं वयह सिलोगपूअं, तं परिन्नाय परिव्वए स भिक्खू ॥९॥ PI क्षत्रियाः-हैहेयाद्यन्वयजा गणाः-मल्लादिसमूहाः उग्राः-आरक्षकादयः राजपुत्राः-नृपसुताः, एषां द्वन्द्वः, 'माहन
भोगिकाः' तत्र माहना ब्राह्मणास्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिमान्याः प्रधानपुरुषाः, 'विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः, पठन्ति च-'सिप्पिणोऽण्णे' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां' क्षत्रियादीनां वदति' प्रतिपादयति, के ?-श्लोकपूजे श्लोक-श्लाघां यथैते शोभना इति, पूजां च-यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात् , किंतु 'तदिति श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाह
गिहिणो जे पव्वइएण दिहा, अप्पव्वईएण व संथुया हविज्जा। तेसिं इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू ॥१०॥
*
*
**4-20
nelibrary.org
Jain Education a
For Privale & Personal use only
nal