________________
उत्तराध्य.
सभिक्षुक
बृहद्वृत्तिः
मध्ययनं.
॥४१७॥
शुभदः स्मृतः। विपरीतः प्रवेशे तु, स एवाभीष्टदायकः॥१॥" तथा-"दुर्गाखरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः॥१॥” इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः शुभाशुभाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः॥ अनेन निमित्तलक्षणोत्पादनादोपपरिहार उक्तः, सम्प्रति मन्त्रादिरूपतहोषपरिहारायाह
मंतं मूलं विविहं विज्ञचिंतं, वमणविरेयणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू ॥८॥ _ 'मत्रम्' ॐकारादिस्वाहापर्यन्तो हीकारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादि तत्तच्छास्त्रविहितं मूलकम वा विविध' नानाप्रकारं 'वैद्यचिन्तां' वैद्यसम्बन्धिनी नानाविधौषधपथ्यादिव्यापारात्मिका, विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम्-उद्गिरणं विरेचनं-कोष्ठशुद्धिरूपं धूम-मनःशिलादिसम्बन्धि नेतंति-नेत्रशब्देन नेत्रसंस्कारकमिह समीराअनादि परिगृह्यते, स्नानम्-अपत्यार्थ मत्रौषधिसंस्कृतजलाभिषेचनं, वमनादीनां च नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे सरणं'ति, सुब्ब्यत्ययाद् 'आतुरस्य' रोगादिपीडितस्य 'शरणं' स्मरणं हा तात ! हा मातः! इत्यादिरूपं चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति
॥४१७॥
Mainelibrary.org
Jain Educatio
For Private & Personal Use Only
n