________________
सभिक्षुकमध्ययनं.
१५
उत्तराध्य.
ग्रमना न संप्रहृष्टः असंप्रहृष्टः-आक्रोशादिपु न प्रहर्षवान. यथा कश्चिदाह-“कश्चित् पुमान् क्षिपति मां परिबृहद्वृत्तिः रूक्षवाक्यः, श्रीमत्क्षमाभरणमेत्य मुदं ब्रजामि" इत्यादि, प्रकृतोपसंहारमाह-यः 'कृत्स्त्रम्' उत्कृष्टादिभेदतः समस्त
माक्रोशवधम् 'अध्यास्ते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः ॥ किं च॥४१५॥
पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं।
अव्वग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥४॥ 'प्रान्तम्' अवमं शयनं च-संस्तारकादि आसनं च-पीठकादि शयनासनम् उपलक्षणत्वाद्भोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं. चस्य गम्यमानत्वात्तच सेवित्वा 'विविधं च' नानाप्रकार कादंशाश्च मशकाश्च दंशमशकं प्राग व्याख्यातमेव प्राप्येति शेषो, मत्कुणाधुपलक्षणं चैतत् , अव्यग्रमना असंप्रष्टो यः
कृत्स्नमध्यास्ते स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनासनं भुक्त्वेति अतिसात्त्विकतादर्शनार्थ, प्रान्तशयनावादितायां हि सुदुःसहाः शीतादयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः ॥ अपरं च
नो सक्कियमिच्छई न पूअं, नोवि य वंदणगं कुओ पसंसं ?।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ 'नो' निषेधे 'सत्कृतं' सत्कारमभ्युत्थानानुगमादिरूपम् इच्छति' अभिलपति, प्राकृतत्वाच सूत्रे दीर्घनिर्देशः,
SURAUHAS***
॥४१५॥
Jain Educatio
n
al
For Private & Personal use only
Thainelibrary.org