________________
पश्यतीत्येवंशीलः सर्वदर्शी, यदिवा सर्व दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं हि-“पडिग्गहं संलिहिताणं, लेवमायाएँ संजए । दुग्गंधं वा सुगंधं वा, सचं भुंजे ण छड्डए॥१॥" अत एव यः कस्मिंश्चित्सचित्तादिवस्तनि न
मूछितः-प्रतिवद्धः, एतेन परिग्रहे निवृत्तेरभिधानमप्रतिबद्धश्च कथमदत्तमाददीत ? इत्यदत्तादाननिवृत्तेश्च, तथा च Pाय एवं मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः ॥ अन्यच
अकोसवहं विदित्तु धीरे, मुणी चरे लाढे निचमायगुत्ते ।
अव्वग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥३॥ आक्रोशनमाक्रोशः-असभ्यालापो वधो-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं तद्विदित्वा खकृत-1 कर्मफलमेतदिति मत्वा 'धीरः' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यतिः 'चरेत्' पर्यटेद् अनियतविहारतयेति | गम्यते, ततश्चानेनाक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढे'त्ति प्राग्वत् , 'नित्यम्' इति सदा 'आत्मा' शरीरम् , आत्मशब्दस्य शरीरवचनस्यापि दर्शनात्, उक्तं हि-"धर्मधृत्यग्निधीन्द्वर्कत्वक्तत्त्वखार्थदेहिषु । शीलानिलमनोयत्नैकवीर्येष्वात्मनः स्मृतिः ॥१॥” इति, तेन गुप्त आत्मगुप्तो-न यतस्ततः करणचरणादिविक्षेपकृत् , यद्वा गुप्तो-5 रक्षितोऽसंयमस्थानेभ्य आत्मा येन स तथा, अव्यग्रम्-अनाकुलमसमअसचिन्तोपरमतो मनः-चित्तमस्येत्यव्य
१ पतद्वहं संलिख्य लेपमात्रया संयतः । दुर्गन्धि वा सुगन्धं वा सर्व भुते न त्यजति ॥ १ ॥
Jain Educ
a
tional
For Private & Personal use only
Pw.jainelibrary.org