________________
उत्तराध्य. बृहद्वृत्तिः ॥४१४॥
ASRASSES OSASUS
खुत्ति' यत्तदोर्नित्याभिसम्बन्धाद् य एवंविधः स भिक्षुः, अनेन सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति || सभिक्षुकसूत्रार्थः ॥ तच सिंहतया विहरणं यथा स्यात्तथा विशेषत आह
मध्ययनं. राओवरयं चरिज लाढे, विरए वेदवियाऽऽयरक्खिए।
पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ रागः-अभिष्वङ्गः उपरतो-निवृत्तो यस्मिंस्तद्रागोपरतं यथा भवत्येवं 'चरेद्' विहरेत् , तान्तस्य परनिपातः ४.प्राग्वत् , अनेन मैथुननिवृत्तिरुक्ता, रागाविनाभावित्वान्मैथुनस्य, यद्वाऽऽवृत्तिन्यायेन 'रातोवरयं ति रात्र्युपरतं 'चरेत्' भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे'त्ति सदनुष्ठानतया प्रधानो विरतः-असंयमानिवृत्तः, अनेन च संयमस्याक्षेपात्प्राणातिपातनिवृत्तिः सावधवचननिवृत्तिरूपत्वाद्वाक्संयमस्य मृषावादनिवृत्तिश्चाभिहिता वेदितव्या, वेद्यतेऽनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं वित्तया आत्मा रक्षितो-दुर्गतिपतनात्रातोऽनेनेति वेदविदात्मरक्षितः, यद्वा वेदं वेत्तीति वेदवित् , तथा रक्षिता आयाः-सम्यग्दर्शनादिलाभा येनेति रक्षितायः, रक्षि- ॥४१४॥ तशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः' हेयोपादेयबुद्धिमान् 'अभिभूय' पराजित्य परीषहोपसर्गानिति गम्यते, 'सर्व' समस्तं गम्यमानत्वात्प्राणिगणं पश्यति-आत्मवत्प्रेक्षत इत्येवंशीलः, अथवाऽभिभूय रागद्वेषौ सर्व वस्तु समतया
Jain Educati
Vlainelibrary.org
o
For Private & Personal Use Only
nal