________________
शब्दात्सरजस्कादिषु चान्यतरो विवक्षित इति गम्यते, द्रव्यत्वं चास्य रागादिलक्षणक्षुद्रेत्तृत्वाभावात् , भावभिक्षुमाह-यो 'भिनत्ति' विदारयति क्षुधं 'खलु' अवधारणे भिन्नक्रमश्च, ततः स एव भिक्षुर्भावतो भवतीति गाथाद्वयार्थः ॥ इह च भिनत्तीत्युक्तमतः कर्तृकरणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः, अत आह
भेत्ता य भेअणं वा नायत्वं भिंदियवयं चेव । इक्किकपि अ दुविहं दवे भावे अ नायवं ॥ ३७६ ॥ | रहकारपरसुमाई दारुगमाई अ दवओ डंति। साहू कम्मष्टविहं तवो अ भावंमि नायवो ॥३७७॥
रागदोसा दंडा जोगा तह गारवा य सल्ला य।विगहाओ सण्णाओ खुहं कसाया पमाया य ॥३७८॥ भेत्ता च कर्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समुच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यक कर्म यद्भिद्यते, 'चः' समुच्चये, “एवं' इति पूरणे, 'एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च 'द्विविधं' विभेदं द्रव्ये भावे च विचार्यमाणे 'ज्ञातव्यम्' अवगन्तव्यं । तत्र द्रव्ये 'रहगारपरसुमाइ'त्ति आदिशब्दस्य प्रत्येकमभिसम्बन्धाद् रथकारः-तक्षकस्तदादिद्रव्यतो भेत्ता, आदिशब्दादयस्कारादिपरिग्रहः, परशुः-कुठारस्तदादिन्यतो भेदनम् आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई यत्ति दारुक-काष्ठं तदादि च द्रव्यतो भेद्यम् , आदिशब्दाल्लोहादि
Jain Educa
P
iational
For Privale & Personal use only
OM.jainelibrary.org