________________
सुवण्णपासे वत्ति इवशब्दस्य भिन्नक्रमत्वात् आपत्वाच 'उरग इव' भुजग इव 'सौपर्णेयपार्थे' गरुडसमीपे 'शङ्कमानः' भयत्रस्तस्तन्विति-स्तोकं मन्दं यतनयेतियावत् 'चरेः' क्रियासु प्रवर्तख, अस्यायमाशयः-यथा सौपर्णेयोपमैविषयने बाध्यसे तथा संयममासेवख, ततश्च किमित्याह-'णागोव' अर्द्ध स्पष्टम् , आशयश्चायं-यथा नागः बन्धनं वरत्रान्दुकादि 'छित्त्वा' द्विधा विधायात्मनो 'वसति' विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिः-कर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां ब्रजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् ।। एवं चोपदिश्य निगमयितुमाह-'एतदू' यन्मयोक्तं 'पथ्यं हितं 'महाराज!' प्रशस्यभूपते? 'इषुकार !' इषुकारनामन् !, एतच न मया स्वमनीषिकयैवोच्यते, किन्तु 'इति' इत्येतन्मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृपः, ततश्च यत्तौ द्वावपि चक्रतुस्तदाह
चइत्ता विपुलं रज्जं, कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥५०॥
सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे चरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरकमा! ॥५१॥
'त्यक्त्वा' प्रहाय 'विपुलं' विस्तीर्ण 'राष्ट्र' मण्डलं. पाठान्तरतो राज्यं वा 'कामभोगांश्च' उक्तरूपान् 'दुस्त्यदाजान्' दुष्परिहारान् "निर्विषयौ' शब्दादिविषयविरहितौ अत एव निरामिषौ, यद्वा विषयो-देशस्तद्विरहितौ राष्ट
परित्यागतः कामभोगत्यागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितौ, कुतः पुनरेवंविधौ ?, यतो 'निःस्नेहौ' निष्प्रति
JainEducatii
n ation
For Privale & Personal use only
w.jainelibrary.org