________________
उत्तराध्य.
बृहद्वृत्तिः
॥४१०॥
Jain Education
यति 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं' करम्, आर्य ! अद्य वा 'आगताः' प्राप्ताः, कोऽर्थः ? - स्ववशाः, आत्मनोऽज्ञतां दर्शयितुमाह - 'वयं च सत्त' ति वयं पुनः 'सक्तानि' संबद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽप्यस्मदोर्द्वयोश्चेति ( पा०-१-२-५९ ) बहुवचनं, 'कामेषु' अभिलषणीयशब्दादिषु एवंविधेष्वपि चामीष्वभिष्वङ्ग इति | मोहविलसितमिति भावः, यद्वा 'इमे चे 'ति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुपश्चञ्चलतया परलोकगमनाय, शेषं तथैव यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति ? - यथाऽमीभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याहसहामिषेण - पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृत्रं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'बाध्यमानं' पीड्यमानं पश्यन्तरैरिति गम्यते, निरामिषम् - आमिषविरहितमन्यथाभूतं वेति गम्यते, 'आमिषम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्व' निरवशेषम् 'उज्झित्वा' त्यक्त्वा 'विहरिस्सामो' त्ति विहरिष्याम्यप्रतिवद्धविहारितया चरिष्यामी - त्यर्थः, 'निरामिषा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाह--गृद्धेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, 'ज्ञात्वा' अवबुध्य, णमिति प्राग्वत्, कानू ? - प्रक्रमाद्विषयामिपवतो लोकान् 'कामाच ' विषयांच 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः, अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तगृद्धिख्यापनार्थ कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह – 'उरगो
onal
For Private & Personal Use Only
इषुकारीय.
मध्ययनं.
१४
॥४१०॥
ainelibrary.org