________________
R-625
दह्यमानमिव दह्यमानं न 'बुध्यामहे' नावगच्छामो रागद्वेषावग्निरिव रागद्वेषाग्निस्तेन, किं तत् -'जगत् प्राणिस
मूह, यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानानन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय टू इति तद्रक्षणोपायतत्पर एव भवति, न तु प्रमादवशगः सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स आयतिम-31
चिन्तयन् हृष्यति न तु तदुपशमनोपाये प्रवर्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः। ये त्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याह-'भोगान्' मनोज्ञशब्दादीन् 'भोच'त्ति 'भुक्त्वा' आसेव्य पुनरुत्तरकालं 'वान्त्वा च' अपहाय विपाकदारुणत्वाल्लघुः-वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः, कोऽर्थः ?-वायूपमाः तथाविधाः
सन्तो विहरन्तीत्येवंशीलाः लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः, यद्वा लघुभूतः-संयमस्तेन विहन्तुं शील नयेषां ते तथाविधाः, आ-समन्तान्मोदमाना हृष्यन्त आमोदमानाः, तथाविधानुष्ठानेनेति गम्यते, गच्छन्ति विव|क्षितं स्थानमिति शेषः, क इव ?-'दिया कामकमा इव'त्ति इवशब्दो भिन्नक्रमस्ततो द्विजा इव-पक्षिण इव कामः
अभिलापस्तेन कामन्तीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति * एवमेतेऽप्यभिष्वङ्गस्य परतत्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः । पुनर्बहि
रास्थां निराकुर्वन्त्याह-'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादयः, 'चः' समुच्चये 'बद्धाः' नियन्त्रिता अनेकधोपायै दरक्षिता इत्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीदृश इत्याह-'मम हत्थऽजमाग-2
*5545523
JainEducation.in
For Private & Personal use only
Ibrary.org