________________
उत्तराध्य.
बृहद्वृत्तिः
॥४११ ॥
Jain Educati
बन्धी 'निष्परिग्रहौ' कचिदविद्यमानखीकारौ 'सम्यग् ' अविपरीतं 'धर्म' श्रुतचारित्रात्मकं 'विज्ञाय' विशेषतोऽवंबुद्धय 'चेच 'त्ति त्यक्त्वा 'कामगुणान्' शब्दादीन् ' वरान्' प्रधानान् पूर्वविशेषणैर्गतार्थत्वेऽपि पुनरभिधानमतिशयख्यापकं, 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं ' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरम्' अत्यन्तदुरनुचरं घोरकर्मा - वैरिणः प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ तथा देवीनृपौ तथैव च कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ सम्प्रति समस्तोपसंहारमाह
एवं कम बुद्ध, वे धम्मपरायणा । जम्ममचुभव्विग्गा, दुक्खस्संतगवेसिणो ॥ ५२ ॥ सासणि विगयमोहाणं, पुर्विव भावणभाविया । अचिरेणेव कालेण, दुक्खस्संतमुवागया ॥ ५३ ॥ राया सह देवीए, माहणो उ पुरोहिओ । माहणी दारगा चैव सव्वे ते परिनिबुडि ||२४|| तिमि ॥ १४ ॥ ॥ उसुआरिजं चउदसमं ॥
'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि पडपि 'क्रमश:' अभिहितपरिपाट्या 'बुद्धानि' अवगत - तत्त्वानि 'सर्वाणि' अशेषाणि 'धर्मपरायणानि' धर्मैकनिष्ठानि, पठ्यते च - 'धम्म परंपर'ति परम्परया धर्मो येषां तानि परम्पराधर्माणि, प्राकृतत्वाच्च परम्पराशब्दस्य परनिपातः, तथा हि-साधुदर्शनात्कुमारकयोः कुमारषचनात्तत्पित्रोस्तदवलोकनात्कमलावत्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिः, जन्ममृत्युभयेभ्यः - उक्तरूपेभ्प
national
For Private & Personal Use Only
इषुकारीय
मध्ययनं.
१४
॥४११॥
jainelibrary.org