________________
उत्तराध्य.
बृहद्वृत्तिः
॥४०७॥
Jain Education
गम्यते, 'रोहिताः' रोहितजातीयाः 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथेति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यस म्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य धुरि वहन्ति धौरेयास्तेषामिव | शीलम् - उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीलाः 'तपसा' अनशनादिना 'उदाराः' प्रधानाः 'धीराः ' सत्त्ववन्तः हुरिति यस्माद् भिक्षाचर्या 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये | इति भाव इति सूत्रद्वयार्थः ॥ इत्थं तत्प्रतिबोधिता ब्राह्मण्याह
नहेव कुंचा समइकमंता, तयाणि जालाणि दलित्तु हंसा ।
पति पुत्ताय पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का ? ॥ ३६ ॥
'नभसीव' आकाश इव 'क्रौञ्चाः' पक्षिविशेषाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्घयन्तः 'ततानि' विस्तीर्णानि 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् 'दलयित्वा' भित्त्वा 'हंस' त्ति चशब्दस्य गम्यमानत्वाद्धंसाच | 'पलिंति' त्ति परियन्ति - समन्ताद्गच्छन्ति 'पुत्रौ च' सुतौ 'पतिश्च' भर्त्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (नं) जालो-|पमविषयाभिष्वङ्गं भित्त्वा नभः कल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती ?, किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्त्ता वा पुत्रो वा गतिरिति, यदि - वा जालानि भित्त्वेति हंसानामेव संबध्यते, समतिक्रामन्तः स्वातन्त्र्येण गच्छन्त इति तु क्रौञ्चानां ततश्च क्रौञ्चोदा
For Private & Personal Use Only
इषुकारीय
मध्ययनं.
१४
॥४०७ ॥
inelibrary.org