________________
Jain Educati
| हरणमजातकलत्रादिवन्धनसुतापेक्षं, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति भावनीयमिति सूत्रार्थः ॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रत्रज्याप्रतिपत्तौ यदभूत्तदाह
पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए । कुटुंबसारं विलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥
वंतासी पुरिसो रायं !, न सो होइ पसंसिओ । माहणेण परिचत्तं, धणं आदाउमिच्छसि ॥ ३८ ॥ सव्वं जगं जइ तुहं, सव्वं वावि धणं भवे । सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ॥ ३९ ॥ मरिहसि रायं जया तया वा, मणोरमे कामगुणे पहाय ।
इको हु धम्मो नरदेव ! ताणं, न विज्जई अज्जमिहेह किंचि ॥ ४० ॥
'पुरोहितं' पुरोधसं 'तम्' इति भृगुनामानं 'ससुतं' पुत्रद्वयान्वितं 'सदारं' सपत्नीकं 'श्रुत्वा' आकर्ण्य 'अभिनिक्रम्य' गृहान्निर्गत्य 'प्रहाय' प्रकर्षेण त्यक्त्वा 'भोगान्' शब्दादीन् प्रत्रजितमिति गम्यते, 'कुटुम्बसारं' धनधान्यादि विपुलं च - विस्तीर्णतया उत्तमं च - प्रधानतया विपुलोत्तमं 'तदिति यत्पुरोहितेन त्यक्तं गृह्णन्तमिति शेषः, 'राय'ति राजानं नृपतिम् 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम तदग्रमहिषी, | किमुक्तवतीत्याह-वान्तम् - उद्गीर्णमशितुं भोक्तुं शीलमस्येति वान्ताशी 'पुरुषः पुमान्, य इति गम्यते, 'राजन् !'
ational
For Private & Personal Use Only
jainelibrary.org