________________
इषुकारीयमध्ययन.
१४
उत्तराध्य. तक्किं वयःस्थैर्याद्यर्थ दीक्षां प्रतिपद्यसे ?, उच्यते हि कैश्चित् दीक्षा वयःस्थैर्यादिविधायिनीत्याशङ्कयाह-'न' इति
निषेधे जीवितम्-असंयमजीवितम् , उपलक्षणत्वाद्वयश्च तदर्थ 'प्रजहामि' प्रकर्षेण त्यजामि भोगान्' शब्दादीन, बृहद्वृत्तिः
किन्तु 'लाभम्' अभिमतवस्त्वाप्तिरूपम् 'अलार्म च' तदभावरूपं 'सुखम्' अभिलपणीयविषयसम्भोगजं, चस्य । ॥४०६॥ भिन्नक्रमत्वाद् 'दुःखं च' बाधात्मकं 'संचिक्खमाणोत्ति समतया ईक्षमाणः-पश्यन् , किमुक्तं भवति ?-लाभा
लाभयोस्तथा सुखदुःखयोरुपलक्षणत्वाजीवितमरणादीनां च समतामेव भावयन् 'चरिष्यामि' आसेविष्ये, किं तत्?'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः ॥ वाशिष्ट्याह
माह तुम सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी।
मुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ ३३ ॥ 'मा' इति निषेधे 'हूः' इति वाक्यालङ्कारे त्वं सोदरे शयिताः सोदाः , 'सोदराद्य इति (पा०४-४-१०९) यः प्रत्ययः, ते च समानकुक्षिभवा भ्रातरस्तेषाम् ,उपलक्षणत्वाच्छेषखजनानां भोगानां च, 'संभरे'त्ति अस्मार्षीः, क इव ?'जुण्णो व हंसो'त्ति इवशब्दस्य भिन्नक्रमत्वात् 'जीर्णः' वयोहानिमुपगतो 'हंस इव' प्रधानपक्षीव प्रतिकूलं स्रोतः है प्रतिस्रोतस्तद्गामी सन् , किमुक्तं भवति ?-यथाऽसौ नदीस्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनु
स्रोत एवानुधावति, एवं भवानपि दुरनुचरं संयमभारं वोढुमसमर्थः पुनः सहोदरादीन् भोगान् वा स्मरिष्यति,
14049AASUUSAASAASAS
॥४०६॥
Jain Educa
t ional
For Private & Personal Use Only
Mainelibrary.org