________________
-%A4%
इति खगृहवर्तिनः, तान् प्रत्यक्षतया निर्दिशति, 'ते' तव तथा 'संपिण्डिताः' सम्यकपुजीकृताः 'अग्गरस'त्ति चश
ब्दस्य गम्यमानत्वादग्र्या रसाश्च-प्रधाना मधुरादयश्च प्रभूताः-प्रचुराः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुदापादानमतिगृद्धिहेतुत्वाच्छब्दादिष्वपि चैषामेव प्रवर्तकत्वात् ,कामगुणविशेषणं वा अग्र्या रसास्त एव शृङ्गारादयो वा
येषु ते तथा, वृद्धास्त्वाहुः-रसानां-सुखानामग्रं रसागं ये कामगुणाः, सूत्रे च प्राकृतत्वादनशब्दस्य पूर्वनिपातः, | 'भुंजामोत्ति भुजीमहि 'तत् तस्मादमी सुसंभृतादिविशेषणविशिष्टास्ते च खाधीनाः सन्ति, 'कामगुणान्' उक्तरूपान् 'प्रकामम्' अतिशयेन, ततो भुक्तभोगाः 'पश्चाद्' इति वृद्धावस्थायां 'गमिष्यामः' प्रतिपत्स्यामहे 'प्रधानमार्ग' महापुरुषसेवितं प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ पुरोहितः प्राह
भुत्ता रसा भोइ ! जहाइ णे वओ, न जीवियट्ठा पजहामि भोए।
लाभं अलाभं च मुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२ ॥ 'भुक्ताः' सेविताः 'रसाः' मधुरादयः, उपलक्षणत्वाच्छेषकामगुणाश्च, यद्वा रसा इह सामान्येनैवाखाधमानहै त्वाद्धोगा भण्यन्ते 'होति'त्ति हे भवति !, आमन्त्रणवचनमेतत् , 'जहाति' त्यजति 'नः' इत्यस्मान् वयः शरीरावस्था
कालकृतोच्यते, सा चेहाभिमतक्रियाकरणक्षमा गृह्यते, ततश्च यतो भुक्ता एवानेकशो भोगा वयश्चाभिमतक्रियाकरणक्षमं जहाति, उपलक्षणत्वाजीवितं च, ततो यावन्नैतत्त्यजति तावद्दीक्षां प्रतिपद्यामह इत्यभिप्रायः,
95
Jain Educatie
rational
For Privale & Personal use only
ainelibrary.org