________________
इषुकारीयमध्ययनं.
उत्तराध्य. Pउपलक्षणं चैतद् व्रतग्रहणस्य काल:-प्रस्तावो वत्तेत इति शेषः। किमित्येवमत आह-शाखाभिः' प्रतीताभिः 'वृक्षः' बृहद्वृत्तिः
द्रुमः 'लभते' प्राप्नोति 'समाधि' स्वास्थ्यं, 'छिन्नाभिः' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समा
धिमाप्तवान् 'खाणुं'ति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणसहायकृत्यकरणादिना १४०५॥
समाधिहेतवः एवं ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य खपरयोः कश्चिदुपकारमपुष्णत एव गृहवासेनेत्यभिप्रायः । किञ्च-पक्षाभ्यां-पतत्राभ्यां विहीनो-विरहितः पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' अस्मिल्लोके 'पक्षी' विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । तथा भृत्याः-पदातयस्तविहीनो, वा प्राग्वत् , 'रणे' सङ्ग्रामे 'नरेन्द्रः' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्न:विनष्टः सारो-हिरण्यरत्नादिरस्येति विपन्नसारो वणिक् सांयात्रिको, वेति प्राग्वत्, 'पोते' प्रवहणे भिन्न इति गम्यते नार्वाग् न च परत इत्युदधिमध्यवर्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः ?-पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्वयार्थः॥ वाशिष्टयाह
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया।
भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ॥३१॥ सुष्ठ-अतिशयेन संभृताः-संस्कृताः सुसंभृताः, के ते ?–'कामगुणा' वेणुवीणाकणितकाकलीगीतादयः 'इमे'
॥४०॥
D
For Private & Personal Use Only
Jain Educatio
ainelibrary.org