________________
ALSARASWACHCRACESS
प्रमत्तो वा 'धनं' वित्तं 'एसमाणे'त्ति 'एषयन्' विविधोपायैर्गवेषयमाणः 'पप्पोत्ति' प्राप्नोति 'मृत्यु' प्राणत्यागं, कोऽसौ ?-पुरुषः 'जरांच' वयोहानिलक्षणाम् । किञ्च-इदं च मेऽस्ति रजतरूप्यादि इदं च नास्ति पद्मरागादि, इदं च 'मे' मम 'कृत्यं कर्तव्यं' गृहप्राकारादि, इदमकृत्यमारब्धमपि वणिज्यादि न कर्तुमुचितं 'त'मिति पुरुषमेवमेव-वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा वदन्तं हरन्ति-अपनयन्त्यायुरिति हराः-दिनरजन्यादयो व्याधि|विशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्तुमाह-'इती'त्यस्माद्धेतोः 'कथं' केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेषः ?, इति सूत्रषट्कार्थः ॥ सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राह
धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा।
तवं कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुज्झं ॥१६॥ 'धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः समं नारीभिः 'खजनाः' पितृपितृव्यादयः, तथा 'कामगुणाः' शब्दादादयः पगाम'त्ति 'प्रकामाः' अतिशायिनः 'तपः' कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः 'लोकः' जनस्तत् 'सर्वम्' अशेषं 'खाधीनम' आत्मायत्तम् 'इहैव' अस्मिन्नेव गृहे 'तुझंति सूत्रत्वाधुवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः ॥ तावाहतुः
Jain Education
Lional
For Privale & Personal use only
linelibrary.org