________________
इषुकारीय. मध्ययनं.
१४
अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासी। उत्तराध्य.
इमं वयं वेयविओ वयंति, जहा न होई असुआण लोगो॥८॥ बृहद्वृत्तिः
अहिज वेए परिविस्स विप्पे, पुत्ते परिदृप्प गिहंसि जाया!।
भुच्चा ण भोए सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥ ॥३९८॥
___ 'अर्थ' अनन्तरं तायते-सन्तानं करोति पालयति च सर्वापद्भ्य इति तातः स एव तातकः 'तत्र' तस्मिन् संनिवेशेऽवसरे वा 'मुन्योः' भावतः प्रतिपन्नमुनिभावयोः 'तयोः' कुमारयोः 'तपसः' अनशनादेः
उपलक्षणत्वाच्छेषसद्धर्मानुष्ठानस्य च 'व्याघातकरं बाधाविधायि, वचनमिति शेषः, 'वयासित्ति अवादीत्, यदसवादीत्तदाह-इमां वाचं वेदविदो 'वदन्ति' प्रतिपादयन्ति, यथा-'न भवति' न जायते 'असुतानाम्' अविद्यमान
पुत्राणां 'लोकः' परलोकः, तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात् , तथा च वेदवचः-'अनपत्यस्य लोका न सन्ति", तथाऽन्यैरप्युक्तम्-“पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः। अथ पुत्रस्य पुत्रेण, स्वर्गलोके मही
यते ॥१॥" तथा-"अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । गृहिधर्ममनुष्ठाय, तेन स्वर्ग गमिष्यति ॥१॥" दयत एवं तस्माद् 'अधीत्य' पठित्वा 'वेदान्' ऋगवेदादीन् 'परिवेष्य' भोजयित्वा 'विप्रान्' ब्राह्मणान् , तथा पुत्रान्
'प्रतिष्ठाप्य' कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य, कीदृशः पुत्रान् ?-गृहे जातान्, न तु गृहीतप्रतिपन्नका
॥३९८॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org.