________________
उत्तराध्य.
बृहद्वृत्तिः
॥२४४॥
कर्मफलभुजो हि जन्तवः, स चैवं कामभोगेषु - उक्तरूपेषु अनुरागः - अभिष्वङ्गः कामभोगानुरागः - तेन 'क्लेशम् ' इह परत्र च विविधवाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं संप्रति|पद्यते तथा वक्तुमाह
तओ दंडं समारभत, तसेसुं थावरेसु य । अट्ठाए य अणट्ठाए, भूयगामं विहिंसइ ॥ ८ ॥
व्याख्या - 'तत' इति कामभोगानुरागात् 'से' इति स घाटवान् दण्ड्यते संयम सर्वखापहरणेनात्मा अनेनेति | दण्डो - मनोदण्डादिस्तं 'समारभते' प्रवर्तत इति केषु ? - त्रस्यन्ति - तापाद्युपतप्तौ छायादिकं प्रत्यभिसर्पन्तीति त्रसाः - द्वीन्द्रियादयस्तेषु तथा शीतातपाद्युपहता अपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीलाः स्थावरास्तेषु च, | अर्थः- प्रयोजनं वित्तावात्यादिः तदर्थमर्थाय चस्य व्यवहितसम्बन्धत्वात् अनर्थाय च - यदात्मनः सुहृदादेर्वा नोपयुज्यते, ननु किमनर्थमपि कश्चिद्दण्डं समारभते, एवमेतत् तथाविधपशुपालवत्, तत्र सम्प्रदायः - यथैकः पशुपालः प्रतिदिनं मध्याह्नगते खौ अजासु महान्यग्रोधतरुं समाश्रितासु तत्थुत्ताणतो णिविण्णो वेणुविदलेण अजोद्गीर्ण| कोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं तेन स वटपादपः प्रायसछिद्रपत्रीकृतः, अन्नया तत्थेगो | रायपुत्तो दातियधाडितो तच्छायसमस्सितो पेच्छए य तस्स वडस्स सर्वाणि पत्राणि छिद्रितानि, तो तेण सो १ तत्रोत्तानको निविष्टो वेणुविदलेन, अन्यदा तत्रैको राजपुत्रो दायादधाटितः तच्छायासमाश्रितः प्रेक्षते च तस्य वटस्य, ततस्तेन स
Jain Education International
For Private & Personal Use Only
अकाम
मरणाध्य.
५
॥२४४॥
www.jainelibrary.org