SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ +SCHORSCORRC REACKERAL न्तत्वं च तेषां शल्यविषादिभिरुदाहरणः प्रतीतमेव, तथा च वक्ष्यति-"सलं कामा विसं कामा, कामा आसीविसो वमा। कामे पत्थेमाणा, अकामा जति दुग्गतिं ॥१॥" न हि विषादीनि मुखमधुराण्यप्यायतिविरसतया विवकिभिन दाहीयन्ते, यदपि परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेशं प्रति बाधकं, पापानुष्ठानस्येव चौरपारदारिका दिषु महानर्थहेतुतया दर्शनात् , परलोकनास्तित्वानिश्चये च तत्रापि तथानर्थहेतुतया सम्भाव्यमानत्वावल्मीककरप्रवेशनादिवत् प्रेक्षावद्भिः परिहर्तुमुचितत्वात् , न च परलोकास्तित्वं प्रति सन्देहः, तन्निश्चायकानुमानस्य तदहर्जातबालकस्तनाभिलाषादिलिङ्गबलोत्पन्नस्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसङ्गेनेति सूत्रार्थः ॥६॥ अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाह जणेण सद्धि होक्खामि, इति बाले पगभइ । कामभोगाणुरागेणं, केसं संपडिवजइ॥७॥ ___ व्याख्या-जायत इति जनो-लोकस्तेन 'सार्द्ध' सह भविष्यामि, किमुक्तं भवति ?-बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि, यद्वा 'होक्खामि त्ति भोक्ष्यामि-पालयिष्यामि, यथा ह्ययं जनः कलत्रादिकं पालयति तथाऽह-| मपि, न हीयान् जनोऽज्ञ इति 'बालः' अज्ञः 'प्रगल्भते' धाष्ट्रर्यमवलम्बते, अलीकवाचालतया च खयंनष्टः परानपि नाशयति, न विवेचयति यथा-किमुन्मार्गप्रस्थितेनाविवेकिजनेन बहुनाऽपि ? मम विवेकिनः प्रमाणीकृतेन ?, खकृत-| १ शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामान् प्रार्थयन्तोऽकामा यान्ति दुर्गतिम् ॥ १॥२ प्रमाणीकरणेनेति, Jain Education Ic linelibrary.org For Privale & Personal use only onal
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy