________________
उत्तराध्य.
बृहद्वृत्तिः
॥२४३॥
| सम्भोगजनिता चित्तप्रहत्तिः, तस्यायमाशयः - कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयमिति सूत्रार्थः ॥ ५ ॥ पुनस्तदाशयमेवाभिव्यञ्जयितुमाह
हत्थाया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए ?, अत्थि वा नस्थि वा पुणो ॥ ६ ॥
व्याख्या - हसन्ति तेनावृत्य मुखं घ्नन्ति वा घात्यमनेनेति हस्तस्तम् आगताः - प्राप्ताः हस्तागताः, उपमार्थोऽत्र गम्यते, ततो हस्तागता इव स्वाधीनतया, क एते ? - 'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामाः - शब्दादयः, | कदाचिदागामिनोऽप्येवंविधा एव स्युरित्याह- काले सम्भवन्तीति कालिकाः - अनिश्चितकालान्तरप्राप्तयो ये 'अना - गता' भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह- ' को जाणइति उत्तरस्य पुनः शब्दस्येह सम्बन्धनात् कः पुनर्जानाति १, नैव कश्चित्, यथा-परलोकोऽस्ति नास्ति वेति, अयं चास्याशयः - परलोकस्य सुकृता|दिकर्मणां वाsस्तित्वनिश्चयेऽपि ' को हि हस्तगतं द्रव्यं पादगामि करिष्यती'ति न्यायतः क इव हस्तागतान् कामानपहाय कालिककामार्थं यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्याप्रवृत्तेः, अनुमानस्य तु प्रवृत्तावपि गोपालघटिकादिधूमादभ्यनुमा नवदन्यथाऽप्युपलम्भनान्निश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो नास्ति - त्वनिश्चयो वा, किन्तु सन्देह एव, न त्वयमेवं विवेचयति यथाऽवासा अपि कामा दुरन्ततया त्यक्तुमुचिताः, दुर
Jain Education International
For Private & Personal Use Only
अकाम
मरणाध्य.
५
॥२४३॥
www.jainelibrary.org