________________
CAMECCCCCESARMA
जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रती ॥५॥ व्याख्या-'य'इत्यनिर्दिष्टवरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेषु-अभिलपणीयशब्दादिषु, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाख्याः कामभोगाः तेषु, उक्तं हि-"कामा दुविहा पण्णत्ता-सदा रूवा य, भोगा तिविहा पण्णत्ता, तंजहा-गंधा रसा फासा य"त्ति, 'एकः' कश्चित् क्रूरकर्मा तन्मध्यात् कूटमिव कूट-प्रभूतप्राणिनां यातनाहेतुत्वानरक इत्यर्थः, यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्थ्या (पा. २-३-१२) वित्यादिना चतुर्थी, 'गच्छति' याति, यद्वा यो गृद्धः 'कामभोगेष्विति कामेषुस्त्रीसङ्गेषु भोगेषु-धूपनविलेपनादिपु स 'एकः' सुहृदादिसाहाय्यरहितः कूटाय गच्छति, अथवा कूटं द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगादिबन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात् प्रवर्तते, स हि मांसादिलोलुपतया मृगादिवन्धनान्यारभते, मिथ्याभाषणादीनि चासेवत इति, प्रेरितश्च कैश्चिद्वदति-'न में'इति न मया 'दृष्टः' अवलोकितः, कोऽसौ ?-परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरप्येवंविधैव स्यादत आहचक्षुषा-लोचनेन दृष्टा-प्रतीता चक्षुद्देष्टा 'इय'मिति तामेव प्रत्यक्षां निर्दिशति, रम्यतेऽस्यामिति रतिः-स्पर्शनादि१ कामा द्विविधाः प्रज्ञप्ताः-शब्दा रूपाणि च, भोगास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-न्धा रसाः स्पर्शाश्च ।
Jain Educatio
n
al
For Privale & Personal use only
Y lainelibrary.org