________________
अकाम
मरणाध्य.
उत्तराध्य.
मन्ये मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतः तेषां सकामं-सकामत्वं, मरणाभिलापस्यापि निषिद्धत्वाद्,
उक्तं हि-“मा मा हु विचिंतेजा जीवामि चिरं मरामि य लहुंति । जइ इच्छसि तरिउं जे संसारमहोदहिमपारं बृहद्वृत्तिः
॥१॥"ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच्च 'उत्कर्षण' उत्कर्षोपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि ॥२४२॥
संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता सकृद्' एकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः॥३॥ यदुक्तं-स्त इमे द्वे स्थाने' तत्राद्यं तावदाह
तथिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराणि कुव्वति ॥४॥ | व्याख्या-तत्रे'ति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं, 'महावीरेणे ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यर्थमेतत् , 'देशितं'।
प्ररूपितं, किं तत् इत्याह-'कामेपु' इच्छामदनात्मकेषु 'गृद्धः' अभिकाङ्क्षावान् कामगृद्धो 'यथा' इत्युपप्रदर्शनार्थः, सवाल' इत्युक्तरूपो 'भृशम्' अत्यर्थ 'क्रूराणि' रौद्राणि, कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'कुछ
तित्ति करोति-क्रिययाऽभिनिवर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाह
१ मा मैव विचिन्तयेः जीवामि चिरं म्रिये च लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १ ॥
SSASSAMACASSASSAX
॥२४२॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org