SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ संतिमे य दुवे हाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥२॥ व्याख्या-सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तो-विद्यते 'इमे' प्रत्यक्षे, चः पूरणे, पठ्यते च 'संतिमेए'त्ति स्त एते, मकारोऽलाक्षणिकः, एवमन्यत्रापि यत्र नोच्यते तत्र भावनीयं, 'द्वे' द्विसङ्खये तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, अनेन तीर्थकृतां परस्परं वचनाव्याहतिरुपदर्शिता, ते च कीदृशे ?-'मारणतिए'त्ति मरणमेवान्तो-निजनिजायुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, ते एव नामत उपदर्शयति-17 'अकाममरणम्' उक्तरूपमनन्तरवक्ष्यमाणरूपं च, वक्ष्यमाणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' उक्तरूपं वक्ष्यमाणखरूपं च तथेति सूत्रार्थः ॥२॥ केषां पुनरिदं कियत्कालं च ? इत्यत आह बालाणं अकामं तु, मरणं असतिं भवे । पंडियाणं सकामं तु, उक्कोसेण सतिं भवे ॥३॥ व्याख्या-बाला इव बालाः सदसद्विवेकविकलतया तेषाम् 'अकामं तु'त्ति तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणमसकृद्-वारंवारं भवेत, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति, 'पण्डि तानां' चारित्रवतां सह कामेन-अभिलाषेण वर्तते इति सकामं सकाममिव सकामं मरणं प्रत्यसंत्रस्ततया, तथात्वं है चोत्सवभूतत्वात् तादृशां मरणस्य, तथा च वाचक:-"सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं Jain Education For Privale & Personal use only A helibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy