________________
SACROSRECORROROSCOOKARO
धर्मस्यापि सम्यक्त्वदेशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ॥ एवमुक्तोऽपि यदाऽसौ न, किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराह
न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसुं।
मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं! आमंतिओऽसि ॥३३॥ 'नेति प्रतिषेधे तव 'भोगान्' शब्दादीन् , उपलक्षणत्वादनार्यकर्माणि वा, 'चइऊण'त्ति त्यक्तुं, यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेय इति 'वुद्धिः' अवगतिः, किन्तु 'गृद्धः' मूछितः 'असि' भवसि, केषु ?'आरम्भपरिग्रहेषु' अवद्यहेतुषु व्यापारेषु चतुष्पदद्विपदादिखीकारेषु च, 'मोह'ति मोघं निष्फलं यथा भवति एवं, सुब्ब्यत्ययाद्वा मोघो-निष्फलो मोहेन वा-पूर्वजन्मनि मम भ्राताऽऽसीदिति स्नेहलक्षणेन 'कृतः' विहितः एतावान् 'विप्रलापः' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रति तु 'गच्छामि' ब्रजामि राजन् ! आमत्रितः-संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि, अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमाणस्यापि ते न मनागपि विषयविरक्तिरित्यविनेयत्वादपेक्षैव श्रेयस्करी, उक्तं हि "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु” (तत्त्वा० अ० ७-सू०-६) इति सूत्रार्थः ॥ इत्थमुक्त्वा गते मुनी ब्रह्मदत्तस्य यदभूत्तदाह
Jain Education
library
a
For Privale & Personal Use Only
l