________________
Jain Education
हि - " न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । न शक्ताः मरणात्रातुं शक्ताः संसारसागरे ॥ १ ॥” इति, अथवाऽंशो - दुःखभागस्तं हरन्ति - अपनयन्ति ये तेऽंशहरा भवन्तीति इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेत - |द्- जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आह-न तस्य मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्त| पीडितस्य दुःखं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातयः' दूरवर्त्तिनः खजना न 'मित्रवर्गा' सुहत्समूहा न 'सुताः' पुत्रा न 'बान्धवाः' निकटवर्त्तिनः खजनाः, किन्तु एकः - अद्वितीयः 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःख' क्लेशं किमिति ?, यतः 'कर्तारमेव' उपार्जयितारमेव 'अनुयाति' अनुगच्छति, किं तत् ? - कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ॥ इत्थमशरणत्वभावनामभिधायैकत्वभावनामाह - चिच्चादुपयं च चप्पयं च खित्तं गिहं धणधन्नं च सव्वं । कम्मपबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥ २४ ॥ तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं ।
भजाय पुत्तावि य नायओ अ, दायारमन्नं अणुसंकर्मति ॥ २५ ॥
' त्यक्त्वा' उत्सृज्य 'द्विपदं च' भार्यादि 'चतुष्पदं च ' हस्त्यादि ' क्षेत्रम् ' इक्षुक्षेत्रादि 'गृह' धवलगृहादि 'धण'त्ति धनं- कनकादि 'धान्यं' शाल्यादि, चशब्दाद् वस्त्रादि च, 'सर्व' निरवशेषं ततः किमित्याह - कर्मैवात्मनो
ational
For Private & Personal Use Only
lainelibrary.org